Sanskrit Divas

जयतु संस्कृतम्|

संस्कृतभाषा भारतस्य जगत: वा भाषासु एकतमा‌ प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृतावाक्, दैवीवाक्, इत्यादिभिः नामभिः एषा भाषा प्रसिद्धा।

भारते प्रतिवर्षं श्रावणी पूर्णिमाअवसरे संस्कृत दिवसं आचर्यते । श्रावणी पूर्णिमा अर्थात् रक्षा बन्धनं ऋषीणां स्मरणं पूजनं समर्पणं दिवसं च मानयन्ति । वैदिक साहित्ये श्रावणी इति वदन्ति स्म । एतस्मिन् दिने गुरुकुलेषु वेदाध्ययनात् पूर्वं यज्ञोपवीतधारणं कारयन्ति ।

१९६९ तमे वर्षे भारत सर्वकारस्य शिक्षा मन्त्रालयस्य आदेशेन केन्द्रीयस्तरेषु राज्यस्तरेषु च संस्कृत दिवसं निर्मातुं निर्देशः कृतः । ततः सम्पूर्णे भारते संस्कृत दिवसं श्रावण पूर्णिमा दिने कुर्वन्ति ।

अस्माकं गोपल्स गार्डन हायस्कूलमध्ये अपि प्रथम कक्षात: दशमीकक्षापर्यन्तं सर्वे छात्रा: अगस्तमासस्य नवदिनाङ्के संस्कृतदिनस्य कार्यक्रमः कृतवन्त:। तथा अनयो: सूत्रसञ्चालनेन कार्यक्रमस्य आरम्भ: अभवत्। प्रथमत: पञ्चमकक्षाणां छात्रा: लघुकथा नाटिकायां स्पष्टीकृतवन्त:। नवदृढ़संकल्पस्योपरि एकं गीतं चतुर्थी-पञ्चमी कक्षाया: छात्रा: सादरं कृतवन्त:| द्वितीयाकक्षात: पञ्चमीकक्षापर्यन्तं छात्रा: सुभाषितै: मन: हृतवन्त:|

दशदिनाङ्के पूर्वप्राथमिकविभाग: बुधवासरे संस्कृतदिनं आचरत्। शिशु वर्गाणां छात्रा: संस्कृत प्रार्थनया कार्यक्रम: आरब्ध:। बालवर्गाणां छात्रा: संस्कृतेन स्वपरिचयं दत्तवन्त:।शिशु वर्गाणां छात्रा: ‘विपणि:’ इति गीतं सादरम् अकुर्वन्।

विद्यालयस्य मुख्याध्यापिका कौतुकसुमनै: छात्राणाम् अभिप्रेणम् अकरोत्। कार्यक्रमस्य समापनं प्रमुखातिथि: श्रीमान् सत्यानन्ददासप्रभोः अमृतवचनै: अभवत्। स: संस्कृतभाषाया: आध्यात्मिकमहत्त्वं उक्तवान्।